शास्त्र क्या है?, शास्त्र का महत्त्व क्या है? अाैर शास्त्र की मर्यादा में सभी लाेगाें का रहना क्याें अावश्यक है? ।
वैदिक सनातन वर्णाश्रमधर्म की परम्परा में मूल शास्त्र वेद ही है । इसी लिए वेद पढने के लिए द्विजातियाें का उपनयन अनिवार्य रूप में किया जाता है, शास्त्राेक्त विधि से वेद पढाया जाता है ।
वेद मन्त्रब्राह्मणात्मक है ।
वेद ऋग् वेद यजुर् वेद सामवेद अथर्ववेद करके चार विभागाें में विभक्त है । ऋग् वेदादि प्रत्येक विभाग की अनेक शाखाएं हैं ।
इस प्रकार का वेद ही मुख्य शास्त्र है । अतः कहा गया है कि
(क) न वेदशास्त्रादन्यत् तु किञ्चिच् छास्त्रं हि विद्यते ।
(बृहद् याेगियाज्ञवल्क्यस्मृति १२।१ )।
(ख) नास्ति वेदात् परं शास्त्रम् । (अत्रिसंहिता, श्लाेक १५१ )।
(ग) न वेदेन समं शास्त्रम् । (पद्मपुराण ४।९४।३७) (अानन्दाश्रमसंस्करण) ।
(घ) यदन्यद् वेदवादेभ्यस् तदशास्त्रमिति श्रुतिः ।(महाभारत शान्तिपर्व २६९।५९)।
(ङ) यानीहाssगमशास्त्राणि याश् च काश् च प्रवृत्तयः ।
तानि वेदं पुरस्कृत्य प्रवृत्तानि यथाक्रमम् ।। (महाभारत, अनुशासनपर्व १२२।४)।
(च) सर्वज्ञात् सर्वशक्तेश् च मत्ताे वेदः समुत्थितः ।
अज्ञानस्य ममाsभावादप्रमाणा न च श्रुतिः ।।
स्मृतयश् च श्रुतेरर्थं गृहीत्वैव च निर्गताः ।
मन्वादीनां श्रुतीनां च ततः प्रामाण्यमिष्यते ।।( देवीभागवत ७। ३९।१६,१७ )।
इस मूल शास्त्ररूप वेद के स्वरूप अर्थ प्रयाेग अाैर रहस्य काे समझने के उपाय के रूप में मुनियाें ने शिक्षा कल्प व्याकरण निरुक्त छन्दश्शास्त्र अाैर ज्याेतिष ये छह वेदाङ्ग हम लाेगाें काे दिए हैं ।
वेद का इन ही वेदाङ्गाें के प्रकाश से प्रकाशित अर्थ ही यथार्थ अाैर ग्राह्य माना जाता है ।
अतः ये ही वेदवेदाङ्ग मुख्य शास्त्र हैं । अन्य स्मृति-पुराण-रामायण-महाभारतादि के वचन ताे वेद में विहित उक्त सूचित अाकाङ्क्षित तथा वेद के अनुकूल अाैर अविराेधी अर्थ के प्रतिपादक हाेने पर ही धर्म में अाैर माेक्ष में प्रमाण माने जाते हैं ।
इस प्रकार वेद अज्ञान भ्रम प्रमाद विप्रलिप्सा (लाेगाें काे ठगने की इच्छा) इत्यादि दाेष से रहित अाैर मनुष्याें के कल्याण का मार्ग का दर्शक हाेने से इसका वैदिक सनातन वर्णाश्रमधर्म में महत्त्व अत्यन्त प्रभूत (बहूत) है ।
इसी लिए वेद का अाैर वेदाेपजीवी वेदाङ्गस्मृत्यादि का महत्त्व सर्वत्र गाया गया है, जैसे--
१. वेदाे धर्ममूलम् ।(गाैतमधर्मसूत्र १।१।१) ।
२. वेदाेsखिलाे धर्ममूलम् ।(मनुस्मृति २।६) ।
३.धर्मं जिज्ञासमानानां प्रमाणं परमं श्रुतिः ।(मनुस्मृति २।१३) ।
४.न वेदानां परिभवान् न शाठ्येन न मायया ।
महत् प्राप्नाेति पुरुषाे ब्रह्मणि ब्रह्म विन्दति ।।(महाभारत, शान्तिपर्व २६९।१९)।
५.यथा गङ्गासमा पुण्या नदी लाेके न विद्यते ।
तथा वेदसमं मानं नास्ति तत्र न संशयः ।।(सूतसंहिता,यज्ञवैभवखण्ड २०।३७) ।
६.मूलस्तमभाे भवेद् वेदः शाखाश् चाsन्यानि यानि तु ।
मूले ह्युपासिते सम्यग् फलं भवति नाsन्यथा ।।(बृहद् याेगियाज्ञवल्क्यस्मृति१२।२५) ।
७.न च वेदादृते शास्त्रं किञ्चिद् धर्माsभिधायकम् ।
याेsन्यत्र रमते साेsसाै न सम्भाष्याे द्विजातिभिः ।।
तस्मात् सर्वप्रयत्नेन धर्मार्थं वेदमाश्रयेत् ।
धर्मेण सहितं ज्ञानं परं ब्रह्म प्रकाशयेत् ।।(कूर्मपुराण १।१२।२६०,२७४) ।
८. न हि प्रवृत्तिर् विष्णाेस् तु विना वेदं प्रवर्तते ।
परेषां स्वस्य वा सृष्टाै श्रुतिप्रामाण्यवान् प्रभुः ।।(स्कन्दपुराण, वैष्णवखण्ड २।११।५) ।
९.वेदप्रणिहिताे धर्माे ह्यधर्मस् तद्विपर्ययः ।
वेदाे नारायणः साक्षात् स्वयम्भूरिति सुश्रुम ।।( भागवत ६।१।४०) ।
१०.वेदा मे परमं चक्षुर् वेदा मे परमं बलम् ।
वेदा मे परमं धाम वेदा मे ब्रह्म चाेत्तरम् ।। (महाभारत, शान्तिपर्व ३४७।३२) ।
११.साधु वाsप्यथवाsसाधुः प्रमाणं नः श्रुतिः परा ।(स्कन्दपुराण १।२।४०।८२) ।
१२.धर्मशब्दाsभिधेयेर्थे प्रमाणं श्रुतिरेव नः ।
परमाे याेगपर्यन्ताे धर्मः श्रुतिशिराेगतः ।।( शिवपुराण ७।१।३२।५,६)।
१३.अतीन्द्रियेsर्थे धर्मे च तथाsधर्मे परात्मनि ।
प्रमाणं वेद एवैकः खलु नाsन्यत् तपाेधन ।।(पराशरपुराण १७।१९) ।
१४.रूपाsवलाेकने चक्षुर् यथाsसाधारणं भवेत् ।
तथा धर्मादिविज्ञाने वेदाेsसाधारणः परः ।।(स्कन्द. सूतसंहिता,सूतगीता३।३३) ।
१५.पितृ-देव-मनुष्याणां वेदश् चक्षुस् तवेश्वर ।
श्रेयस् त्वनुपलब्धेर्थे साध्यसाधनयाेरपि ।।(भागवत ११।२०।४ )।
१६. सर्वथा वेद एवासाै धर्ममार्गप्रमाणकः ।(देवीभागवत ११।१।२६) ।
१७.नाsवेदविन् मनुते तं बृहन्तम् ।(तैत्तिरीयब्राह्मण ३।१२।६।७) ।
१८. तत् प्रमाणं बादरायणस्यानपेक्षत्वात् ।(जैमिनीयधर्ममीमांसासूत्र १।१।५) ।
१९.अतीन्द्रियेर्थे धर्मादाै शिवे परमकारणे ।
श्रुतिरेव सदा मानं स्मृतिस् तदनुसारिणी।।(स्कन्द.सूतसंहिता,सूतगीता ८।१९)।
२०.पुराणाद्युक्तधर्माणां नानादानादिरूपिणाम् ।
सुकृतत्वं वदन्त्येते न धर्मत्वं तु वैदिकाः ।।
( लाैगाक्षिस्मृति,स्मृतिसन्दर्भ,षष्ठ भाग, पृष्ठ २७५) ।
२१.अमीमांसा बहिःशास्त्रा ये चाsन्ये वेदवर्जिताः ।
ते यद् ब्रूयुर् न तत् कुर्याद् वेदाद् धर्माे विधीयते।। (शुक्लयजुर्वेदीयनिगमपरिशिष्ट)।
२२. यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः ।
न स सिद्धिमवाप्नाेति न सुखं न परां गतिम् ।।
तस्माच् छास्त्रं प्रमाणं ते कार्याsकार्यव्यवस्थिताै।
ज्ञात्वा शास्त्रविधानाेक्तं कर्म कर्तुमिहार्हसि ।।(गीता १६।२३,२४) ।
२३. श्रुतिस् तु वेदाे विज्ञेयाे धर्मशास्त्रं तु वै स्मृतिः।
ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्माे हि निर्बभाै ।।
याेsवमन्येत ते मूले हेतुशास्त्राश्रयाद् द्विजः ।
स साधुभिर् बहिष्कार्याे नास्तिकाे वेदनिन्दकः।।
(मनुस्मृति २।१०।११, विष्णुधर्माेत्तरपुराण ३।१३३।६१,६२) ।
२४.अप्रामाण्यं च वेदानामार्षाणां चैव कुत्सनम् ।
अव्यवस्था च सर्वत्र एतन् नाशनमात्मनः ।।(वासिष्ठधर्मसूत्र१२।४१) ।
२५.अप्रामाण्यं च वेदानां शास्त्राणां चाsभिलङ्घनम्।
अव्यवस्था च सर्वत्र तद् वै नाशनमात्मनः ।।(महाभारत,शान्तिपर्व ७९।१९) ।
२६.अप्रामाण्यं च वेदानां शास्त्राणां चाsभिलङ्घनम्।
अव्यवस्था च सर्वत्र एतन् नाशनमात्मनः ।।(महाभारत,अनुशासनपर्व ३७।१) ।
२७.लाेकाे निरङ्कुशःसर्वाे मर्यादालङ्घने रतः।
मर्यादा स्थापिता तेन शास्त्रं वीक्ष्य महर्षिभिः ।।
(स्कन्दपुराण,अावन्त्यखण्ड ३।१४६।४१)।
२८.न चाssगमादृते धर्मस् तर्केण व्यवतिष्ठते ।
ऋषीणामपि यद् ज्ञानं तदप्यागमहेतुकम् ।।(वाक्यपदीय १।३०) ।
२९.यथायथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथातथा विजानाति विज्ञानं चाsस्य राेचते ।।(मनुस्मृति ४।२०)।
३०यथायथा हि पुरुषः शास्त्रं समधिगच्छति ।
तथातथा विजानाति विज्ञानं चाsस्य राेचते ।।
अविज्ञानादयाेगाे हि पुरुषस्याेपजायते ।
विज्ञानादपि याेगश् च याेगाे भूतिकरः परः ।।
(महाभारत, शान्तिपर्व १३०।१०,११)।
३१.शब्दप्रमाणका वयम्, यच् छब्द अाह तदस्माकं प्रमाणम् ।
(पतञ्जलिकृत पाणिनीयव्याकरणभाष्य ,पस्पशाह्निक २।१।१, वार्तिक ५) ।
.३२.ये नियाेगांश् च शास्त्राेक्तान् धर्माsधर्मविमिश्रितान् ।
पालयन्तीह ये वैश्य न ते यान्ति यमालयम् ।।(पद्मपुराण,स्वर्गखण्ड,३१।३९) ।
३३.प्रवृत्ताै च निवृत्ताै च श्रुतिशास्त्राेक्तमेव च ।
अाचरन्ति महात्मानस् ते नराः स्वर्गगामिनः।।
(पद्मपुराण,भूमिखण्ड ९६।३६,पातालखण्ड.९६।८९,९०) ।
३४.क्रिया च शास्त्रनिर्दिष्टा रागद्वेषविवर्जिता ।
कर्तव्याsहरहः श्रद्धापुरस्कारेण शक्तितः ।।(मार्कण्डेयपुराण १६।५९,६०) ।
२४.एवं सर्वेन्द्रियारम्भान् वेदपूर्वान् समाचरेत् ।
ब्राह्मणाे भूतिसम्पन्नाे य इच्छेद् भूतिमात्मनः ।।(हरिवंश ३।२४।१५) ।
३५.प्रवृत्तिं वचनात् कुर्वन् निवृत्तिमपि कर्मणाम् ।
एवं व्यवहरन् नित्यं गृहस्थाेsपि हि मुच्यते ।।(प्रजापतिस्मृति,श्लाेक १४६) ।
३६.यद् विना धर्मशास्त्रेण प्रायश्चित्तं विधीयते ।
न तेन शुद्धिमाप्नाेति प्रायश्चित्ते कृतेsपि सः ।।
(पाराशरमाधवीय,प्रथमभाग,पृष्ठ १०२) ।
३७.वचः पूर्वमुदाहार्यं यथाेक्तं धर्मवक्तृभिः ।
पश्चात् कार्याsनुसारेण शक्त्या कुर्युरनुग्रहम् ।।
न हि तेषामतिक्रम्य वचनानि महात्मनाम् ।
प्रज्ञानैरपि विद्वद्भिः शक्यमन्यत् प्रभाषितुम् ।।
(पाराशरमाधवीय,प्रथमभाग,पृष्ठ १६२) ।
३८. अश्राैत-स्मार्त-विहितं प्रायश्चित्तं वदन्ति ये ।
तान् धर्मविघ्नकर्तृंश् च राजा दण्डेन पीडयेत् ।।(यमस्मृति, श्लाेक ५९) ।
३९.ज्याैतिषं व्यवहारं च प्रायश्चित्तं चिकित्सितम् ।
विना शास्त्रेण याे ब्रूयात् तमाहुर् ब्रह्मघातकम् ।।
(हेमाद्रिकृत चतुर्वर्गचिन्तामणि, प्रायश्चित्ताध्याय,पृष्ठ ९८७) ।
४०.चित्तं च वित्तं च नृणां विशुद्धं शस्तश् च कालः कथिताे विधिश् च ।
पात्रं यथाेकतं परमा च भक्तिर् नृणां प्रयच्छन्त्यभिवाञ्छितानि ।।
(वराहपुराण१३।४८,विष्णुपुराण३।१४।२०,स्कन्दपुराण,अावन्त्यखण्ड १।१६।२२)।
४१.यथाेक्तं कुरुते यस् तु विधिवत् सुकृतं नरः ।
स्वल्पं मुनिवरश्रेष्ठ मेरुतुल्यं फलं भवेत् ।।
विधिहीनं तु यः कुर्यात् सुकृतं मेरुमात्रकम् ।
अणुमात्रं तदाप्नाेति फलं धर्मस्य नारद ।।(पद्मपुराण, उत्तरखण्ड ६१।१३,१४) ।
४२.स्नानं दानं जपाे हाेमाे देवपूजा द्विजाsर्चनम् ।
अक्षयं जायते सर्वं विधिवच् चेद् भवेत् कृतम् ।।
(स्कन्दपुराण,प्रभासखण्ड२।१३।१०)।
४३.विधिदृष्टं तु यत् कर्म कराेत्यविधिना तु यः ।
न फलं किञ्चिदाप्नाेति क्लेशमात्रं तु तस्य तत् ।।....
श्रद्धा-विधि-समायुक्तं कर्म यत् क्रियते नृभिः ।
शुचिशुद्धेन भावेन तदानन्त्याय कल्पते ।।
विधिहीनं भावदुष्टं कृतमश्रद्धया च यत् ।
तद् हरन्त्यसुरास् तस्य मूढस्य त्वकृतात्मनः ।।
( याेगयाज्ञवल्क्यवचन, हेमाद्रिकृत चतुर्वर्गचिन्तामणि,श्राद्धकल्पखण्ड,पृष्ठ ८८३,८८४) ।
४४.यः कश्चित् कुरुते धर्मं विधिं हित्वा दुरात्मवान् ।
न तत्फलमवाप्नाेति कुर्वाणाेsपि विधिच्युतः ।।
(लघुहारीतस्मृति,३।३,स्मृतिसन्दर्भ,पृष्ठ ९७९) ।
४५.स्वाsभिप्रायकृतं कर्म विधि-विज्ञान-वर्जितम् ।
क्रीडाकर्मेव बालानां तत् सर्वं स्यान् निरर्थकम् ।।
(अाङ्गिरसस्मृति,उत्तराङ्गिरस १।१०,स्मृतिसन्दर्भ पञ्चमभाग,पृष्ठ ३०६६,पाराशरमाधवीय,प्रथमभाग,पृष्ठ २९१) ।
४६.पूर्वं निश्चित्य शास्त्रार्थं यथावत् कर्मकारकः ।
अवेदनिन्दकाे धीमानधिकारी व्रतादिषु ।।
(हेमाद्रिकृत चतुर्वर्गचिन्तामणि,व्रतखण्ड,प्रथमभाग,पृष्ठ ३२५) ।
४७.देशं कालं युक्तपात्रं युक्तं चाsयुक्तमृव च ।
शास्त्रदृष्ट्या समालाेच्य पश्चाद् धर्मं समाचरेत् ।।
(लाेहितस्मृति,श्लाेक ५२६,५२७)।
४८.तत् समाप्य यथाेद्दिष्टं पूर्वकर्म समाहितः ।
दातुं निर्वपणं सम्यग् यथावदहमारभम् ।।
ततस् तं दर्भविन्यासं भित्त्वा सुरुचिराङ्गदः ।
प्रलम्बाभरणाे बाहुरुदतिष्ठद् विशां पते ।।
तमुत्थितमहं दृष्ट्वा परं विस्मयमागमम् ।
प्रतिग्रहीता साक्षान् मे पितेति भरतर्षभ ।।
तताे मे पुनरेवासीत् संज्ञा संचिन्त्य शास्त्रतः ।
नाsयं वेदुषु विहिताे विधिर् हस्त इति प्रभाे ।।
पिण्डाे देयाे नरेणेह तताे मतिरभून् मम।
साक्षान् नेह मनुष्यस्य पिण्डं हि पितरः क्वचित् ।।
गृह्णन्ति विहितं चेत्थं पिण्डाे देयः कुशेष्विति ।
तताेsहं तदनादृत्य पितुर् हस्तनिदर्शनम् ।।
शास्त्र-प्रामाण्य-सूक्ष्मं तु विधिं पिण्डस्य संस्मरन् ।
तताे दर्भेषु तत् सर्वमददम् भरतर्षभ ।।
शास्त्र-मार्गा-sनुसारेण तद् विद्धि मनुजर्षभ ।
ततः साेsन्तर्हिताे बाहुः पितुर् मम जनाधिप ।।
तताे मां दर्शयामासुः स्वप्नान्ते पितरस् तथा ।
प्रीयमाणास् तु मामूचुः प्रीताः स्म भरतर्षभ ।।
विज्ञानेन तवानेन यन् न मुह्यसि धर्मतः ।
त्वया हि कुर्वता शास्त्रं प्रमाणमिह पार्थिव ।।
अात्मा धर्मः श्रुतं वेदाः पितरश् चर्षिभिः सह ।
साक्षात् पितामहाे ब्रह्मा गुरवाेथ प्रजापतिः ।।
प्रामाण्यमुपनीता वै स्थिताश् च न विचालिताः ।
तदिदं सम्यगारब्धं त्वयाsद्य भरतर्षभ ।।
(महाभारत, अनुशासनपर्व,अध्याय ८४, श्लाेक १४ से २५ तक) ।
४९.श्राद्धकाले मम पितुर् मया पिण्डः समुद्यतः ।
तं पिता मम हस्तेन भित्त्वा भूमिमयाचत ।।
हस्ताssभरण-पूर्णेन केयूराssभरणेन च ।
रक्ताsङ्गुलि-तलेनाsथ यथा दृष्टः पुरा मया ।।
नैष कल्पे विधिर् दृष्ट इति सञ्चिन्त्य चाsप्यहम् ।
कुशेष्वेव ततः पिण्डं दत्तवानविचारयन् ।।....
त्वया च भरतश्रेष्ठ वेदधर्माश्च शाश्वताः।
कृताः प्रमाणं प्रीतिश् च मम निर्वर्तिताsतुला ।।
तस्मात् तवाsहं सुप्रीतः प्रीत्या च वरमुत्तमम् ।
ददामि त्वं प्रतीच्छ त्वं त्रिषु लाेकेषु दुर्लभम् ।।
न ते प्रभविता मुत्युर् यावज् जीवितुमिच्छसि ।
त्वत्ताेsभ्यनुज्ञां सम्प्राप्य मृत्युः प्रभविता तव ।।
(हरिवंश १।१६।१९,२०,२१,..२७,२८,२९, शिवपुराण ५।४०।२१,२२,२३,२४,२५, २६,२७) ।
५०.रामाे रुद्रपदे श्राद्धे पिण्डदानाय चाेद्यतःः ।
पिता दशरथः स्वर्गात् प्रसार्य करमागतः ।।
नाsदात् पिण्डं करे रामाे ददाै रुद्रपदे ततः ।
शास्त्राsर्थातिक्रमाद् भीतं रामं दशरथाेsब्रवीत् ।।
तारिताेsहं त्वया पुत्र रुद्रलाेकमवाप्नुयाम् ।
हस्ते पिण्डप्रदानेन स्वर्गतिर् न हि मे भवेत् ।।
त्वं च राज्यं चिरं कृत्वा पालयित्वा द्विजान् प्रजाः ।
यज्ञान् सदक्षिणान् कृत्वा विष्णुलाेकं व्रजिष्यसि ।।
पुर्ययाेध्याजनैः सार्धं कृमि-कीटा-ssदिभिः सह ।
इत्युक्त्वाsथाे दशरथाे रुद्रलाेकं परं ययाै ।।
( वायुपुराण २।४९। ७५, ७६,७७,७८,७९, बृहन् नारदीयपुराण २।४६।४१,४२,४३,४४,४५) ।
५१.भीष्माे विष्णुपदे श्रेष्ठे अाहूय पितरं स्वकम् ।
श्राद्ध. कृत्वाेद्यताे दातुं पित्रादिभ्यश् च पिण्डकम् ।।
पितुर् विनिर्गताै हस्ताै गयाशिरसि शन्तनाेः ।
नाsदात् पिण्डं करे भीष्माे ददाै विष्णुपदे ततः ।।
(भीष्मः पिण्डं ददाै भूमाै नाsधिकारः करे यतः )
शन्तनुः प्राह सन्तुष्टः शास्त्रार्थे निश्चलाे भवान् ।
त्रिकालदृष्टिर् भवतु चाsन्ते विष्णुश् च ते गतिः ।।
स्वेच्छया मरणं चाsस्तु इत्युक्त्वा मुक्तिमागतः ।
( वायुपुराण २।४९।८२,८१,८२,८३, बृहन् नारदीयपुराण २।४६।३७,३८,३९,४०) ।
५२.शाेभा-साैकर्य-हेतूक्ति-कलिकाल-वशेन वा ।
यज्ञाेक्त-पशुहिंसादि-त्याग-भ्रान्तिमवाप्नुयुः ।।
(कुमारिलभट्टकृत तन्त्रवार्तिक १।३।४) ।
५३.तस्मादनुग्रहं पीडां तदभावमपास्य च ।
धर्माsधर्माsर्थिभिर् मृग्याै नित्यं विधि-निषेधकाै ।।
(कुमारिलभट्टकृत श्लाेकवार्तिक,चाेदनासूत्र,श्लाेक २४८।२४९)।
५४.एक एव चरेद् धर्मं नाsस्ति धर्मे सहायता ।
केवलं विधिमासाद्य सहायः किं करिष्यति ।।(महाभारत,शान्तिपर्व १९३।३२) ।
५५.मा स्माsधर्मेण लाेभेन लिप्सेथास् त्वं धनाssगमम् ।
मर्माsर्थावध्रुवाै तस्य याे न शास्त्र-पराे भवेत् ।।(महाभारत,शान्तिपर्व ७१।१३) ।
५६.न हि शास्त्रमविज्ञाय वृद्धाननुपसेव्य च ।
धर्माsर्थाै वेदितुं शक्याै बृहस्पतिसमैरपि ।।
(महाभारत,वनपर्व १५०।२६,उद्याेगपर्व ३९।४०)।
५७.पवित्रस्याsपवित्रस्याsशुद्ध्यशुद्ध्याेर् द्विजन्मनाम् ।
शास्त्रज्ञानां वाक्यमात्रमेकं मुख्यं निरूपकम् ।।
(लाैगाक्षिस्मृति,स्मृतिसन्दर्भ,षष्ठ भाग,पृष्ठ २७५, मनसुखराय माेर,५ क्लाइब राे,कल्कत्ता १,विक्रमसंवत् २०१३,इशवीय सन् १९५७) ।
५८.वेदशास्त्राण्यधीते यः शास्त्रार्थं च निषेवते ।
तदाsसाै वेदवित् प्राेक्ताे वचनं तस्य पावनम् ।।(अत्रिसंहिता, श्लाेक १४२,१४३) ।
५९.कर्म कर्तव्यमित्येव विहितेष्वेव कर्मसु ।
बन्धनं मनसाे नित्यं कर्मयाेगः स उच्यते ।।(त्रिशिखब्राह्मणाेपनिषत् २५,२६) ।
६०.व्रतं नाम वेदाेक्त-विधि-निषेधाsनुष्ठान-नैयत्यम् ।
(शाण्डिल्याेपनिषत् २,पृष्ठ ४१०) ।
६१.स्वाsनुभूतेश् च शास्त्रस्य गुराेश् चैवैकवाक्यता ।
यस्याsभ्यासेन तेनाssत्मा सततं चाsवलाेक्यते ।।(महाेपनिषत् ४।५) ।
६२.व्यवस्थिताssर्यमर्यादः कृत-वर्णा-ssश्रम-स्थितिः ।
त्रय्या हि रक्षिताे लाेकः प्रसीदति न सीदति ।।(काैटलीय अर्थशास्त्र,१।३।४) ।
अतः व्यक्ति कुटुम्ब कुल समाज राष्ट्र सभी के सुव्यवस्था से सभी काे धर्म अर्थ काम माेक्ष पुरुषार्थाें की साधना का सुअवसर प्राप्त हाेने की परिस्थिति बनाने के लिए वैदिकसनातनवर्णाश्रमधर्मानुयायी शुद्धकुलीन ब्राह्मणादि जनाें काे देश काल परिस्थिति स्वशक्ति के अनुकूल जितना सम्भव हाेता है उतना वेदशास्त्र का ही विधान का अनुसरण करके स्ववर्णाश्रमधर्म का पालन करना चाहिए । वेदशास्त्र का अनादर करके वर्णाश्रमधर्म काे छाेडकर वर्णधर्ममर्यादा काे अाैर अाश्रमधर्ममर्यादा काे ताेडकर शास्त्रप्रामाण्य काे ध्वस्त करके मनमाना अाचरण नहीं करना चाहिए । वर्णाश्रमधर्म काे छाेडकर अन्य मार्ग में जाने पर नरक में जाना पडेगा । मनुस्मृति में कहा है कि --
स्वेभ्यःस्वेभ्यस् तु कर्मभ्यश् च्युता वर्णा ह्यनापदि ।
पापान् संसृत्य संसारान् प्रेष्यतां यान्ति शत्रुषु ।।
वान्ताश्युल्कामुखः प्रेताे विप्राे धर्मात् स्वकाच् च्युतः ।
अमेध्यकुणपाशी च क्षत्रियः कटपूतनः ।।
मैत्राक्षज्याेतिकः प्रेताे वैश्याे भवति पूयभुक् ।
चैलाशकश् च भवति शूद्राे धर्मात् स्वकाच् च्युतः ।।(मनुस्मति १२।७०,७१,७२।।
अन्यत्र भी कहा गया है--
श्रुतिस् तु वेदाे विज्ञेयाे धर्मशास्त्रं तु वै स्मृतिः।
ते सर्वार्थेष्वमीमांस्ये ताभ्यां धर्माे हि निर्बभाै ।।
याेsवमन्येत ते मूले हेतुशास्त्राsश्रयाद् द्विजाः ।s
स साधुभिर् बहिष्कार्याे नरकाग्नेस् तु भाजनम् ।।
( विष्णुधर्माेत्तरपुराण ३।१३३।६१,६२) ।
याे वेदधर्ममुज्झित्य वर्ततेsन्यप्रमाणतः ।
कुण्डानि तस्य शिक्षार्थं यमलाेके वसन्ति हि ।।(देवीभागवत ११।१।२७) ।
परविद्या अाैर अपरविद्या दाे विद्या वेदप्रतिपादित है, उनके क्षेत्र में अाैर नियम में भी भेद है, दाे क्षेत्राें के विषयाें का साङ्कर्य करके विचार करने से विषय का यथार्थ ज्ञान नहीं हाे सकता है । भ्रम ही फैलता है । अतः यह अविवेक त्याज्य है ।
वेदाध्ययनाध्यापन की यह व्यवस्था अज्ञायमानादि पम्परागत वैदिक व्यवस्था है, किसी एक व्यक्ति की व्यवस्था नहीं है, एक व्यक्ति काे गालि देने से क्या हाेगा? ब्राह्मणादि त्रैवर्णिक भी गुरु से भी श्रद्धा विना गुरुशुश्रूषा विना धनबलादि से दम्भ के लिए वेद पढ लेता है ताे उस से प्राप्त धर्मज्ञान मान्य नहीं है , गुरु से सुने विना लिखित वा मुद्रित पुस्तक से ब्राह्मण भी वेद पद पढता है ताे वह भी मान्य नहीं है , किसी सीधे सादे ब्राह्मण गुरु से छलछद्मादि किसी प्रकार से शूद्र वेद प्राप्त करलेता है ताे वह भी मान्य नहीं है । यह वैदिक परम्परा है । वैदिकधर्मरक्षकशिराेमणि कुमारिलभट्टपाद इस परम्परा काे स्पष्ट करके गए हैं । वे कहते हैं कि तथैवान्यायविज्ञाताद् वेदाल् लेख्यादिपूर्वकाद् । शूद्रेणाधिगताद् वापि धर्मज्ञानं न सम्मतम् ।।(तन्त्रवार्तिक ) । यह वैदिक परम्परा किसी से बदलने का प्रयास करने से नहीं बदलता है । अार्यसमाजी दयानन्द ने इस व्यवस्था काे बदलना चाहा, किन्तु सनातनी वैदिक ब्राह्मणाें से वह पाखण्ड ही माना गया, उस की व्यवस्था सनातनियाें के लिए सर्वथा अमान्य ही रही । अाज भी सर्वथा अमान्य ही है ।।
इस युग में अब्राह्मणकुल में जन्मा हुवा व्यक्ति इस जन्म में ब्राहमण नहीं बन सकता है ।
सच्चरित्र से जीवनयापन करनेपर इसी जीवन में अादरणीय हाे सकते हैं, दूसरे जन्माें में ब्राह्मणजन्म पा सकते हैं । अनेकजन्मसंसिद्धस् तताे याति परां गतिम् ।(गीता६।४५) ।